________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 319 // व्याप्तिः अन्योऽपितदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह श्रुतस्कन्धः१ आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं चतुर्थमध्ययनं सम्यक्त्वं, तिबेमि, नाणागमो मच्चुमुहस्स अत्थि, इच्छा पणीया वंकानिकेया कालगहिया णिचये णिविट्ठा पुढो पुढो जाई पकप्पयंति द्वितीयोद्देशकः // सूत्रम् 132 // सूत्रम् 132 ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स आख्याति आचष्टे इहे ति प्रवचने केषां?-मानवानाम्, सर्वसंवरचारित्रा-8 आश्रवनिर्जरयो हत्वात्तेषाम्, अथवोपलक्षणंचैतदैवादीनाम्, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार इत्यादि, संसारंचतुर्गतिलक्षणं प्रतिपन्नाः संसारपतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीत्येतद्दर्शयति- सम्बुध्यमानानां यथोपदिष्टं धर्म सम्यगवबुध्यमानानाम्, छद्मस्थेन त्वज्ञातबुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति- विज्ञानप्राप्तानां हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः,संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति आघाइ धम्मंखलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः- आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति / यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति- अट्टावि इत्यादि, विज्ञानं प्राप्ता धर्म कथ्यमानं कुतश्चिन्निमित्तादार्ता अपि सन्तः चिलातिपुत्रादय इव अथवा 2 // 319 // प्रमत्ता विषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे- यदिवाऽऽर्ताःदुःखिनः प्रमत्ता:- सुखिनः, तेऽपि प्रतिपद्यन्ते धर्मम्, किं पुनरपरे?, अथवा आर्ताः- रागद्वेषोदयेन प्रमत्ता विषयैः, ते च