________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ 318 // तद्यथा-ये आम्रवा इत्यादीनि, परस्य चार्थावगत्यर्थं शब्दप्रयोगादेतत्पद-वाच्यानर्थांश्च सम्यग्-अविपर्यासेन बुध्यमानस्तथा श्रुतस्कन्धः१ लोकं जन्तुगणमानवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिनाच मुच्यमानमाज्ञयातीर्थकरप्रणीतागमानुसारेणाभिसमेत्य चतुर्थमध्ययनं सम्यक्त्वं, आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगाम्रवोपादानं निर्जरोपादानं चेत्येतच्च द्वितीयोद्देशकः ज्ञात्वा को नाम धर्माचरणं प्रति नोद्यच्छेदिति?, कथं प्रवेदितमिति चेत्?, तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया सूत्रम् 131 आश्रवनिर्जरयो ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया व्याप्तिः यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनतया बहूनां प्राणिनामदुःखोत्पादनतया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीय कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म बध्यते, महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया / अनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कम् , सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति, कायर्जुतया भावर्जुतया भाषर्जुतया अविसंवादनयोगेन / शुभनाम बध्यते, विपर्ययाच्च विपर्यय इति, जातिकुलबलरूपतपःश्रुतलाभैश्वर्यमदाभावादुच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम्, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एते ह्यास्रवाः, साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरंतप इत्यादि, एवमास्रवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपिच जीवादयः पदार्था मोक्षावसाना वाच्याः॥१३१॥ एतानि च पदानि सम्बुध्यमानैस्तीर्थकरगणधरैर्लोकमभिसमेत्य पृथक्पृथक्प्रवेदितम्, // 318 //