SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 317 // श्रुतस्कन्ध:१ चतुर्थमध्ययन सम्यक्त्वं, द्वितीयोद्देशकः सूत्रम् 131 आश्रवनिर्जरयो व्याप्तिः दीनि, तान्येव कर्मोदयादवष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्यास्रवा भवन्ति- पापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव, उक्तं च यथाप्रकारा यावन्तः, संसारावेशहेतवः। तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः॥१॥तथाहि रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टस्तु विदितसंसारोदन्वत:न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः / पुनरेतदेव गतप्रत्यागतसूत्रंसप्रतिषेधमाह-जे अणासवा इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, आम्रवेभ्योऽन्येऽनास्रवा:व्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः- पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानासवाः- कर्मबन्धनानि न भवन्ति, यदिवा आम्रवन्तीत्यास्रवाः, पचाद्यच्, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वाविरतिप्रमादकषाययोगैर्य एव कर्मणामास्रवाः- बन्धकाः त एवापरेषां परिस्रवाः- निर्जरकाः, एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात्, तथा ये आस्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको, बन्धस्य शाटाविनाभावित्वाद्, एवं येऽनास्रवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीय-भङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादानेच मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति / यद्येवं ततः किमित्याह-एए पए इत्यादि, एतानि-अनन्तरोक्तानि पद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, // 317 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy