________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 316 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ उक्तः प्रथमोद्देशकः। साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोद्देशकेसम्यग्वादः प्रतिपादितः, चतुर्थमध्ययनं सम्यक्त्वं, सच प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभलभते, व्युदासश्चन परिज्ञानमन्तरेण, परिज्ञानंच न विचारमृत , अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रं- जे आसवा इत्यादि, यदिवेह सूत्रम् 131 आश्रवनिर्जरयो सम्यक्त्वमधिकृतम्, तच्च सप्तपदार्थश्रद्धानात्मकम्, तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन संसारमोक्षकारणे व्याप्तिः निर्णेतव्ये, तत्र संसारकारणमास्रवस्तद्हणाच्च बन्धग्रहणम्, मोक्षकारणं तु निर्जरा तद्ग्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयंच आणाए अभिसमिच्चा पुढो पवेइयं / / सूत्रम् 131 // य इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आस्रवाः, परिः-समन्तात्स्रवति-गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवास्रवाः- कर्मबन्धस्थानानि त एव परिस्रवाः-कर्मनिर्जरास्पदानि, इदमुक्तं भवति- यानि इतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादास्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया , संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवाः- निर्जरास्थानानि / सर्ववस्तूनामनैकान्तिकता दर्शयितुमेतदेव विपर्ययेणाह-जे परिस्सवा इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठाना 0 विचारमन्तरेण (प्र०)। // 316 //