________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 315 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः सूत्रम् 130 सर्वप्राणाद्यहिंसादिः कुतः स्यात्?। शिष्यमतिस्थैर्यार्थमाह-दिट्ठ मित्यादि, यदेतन्मया परिकथ्यते तत्सर्वज्ञैः केवलज्ञानालोकेन दृष्टम्, तत् शुश्रूषुभिः श्रुतम्, लघुकर्मणां भव्यानां मतम्, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मत्कथिते यत्नवता भवितव्यमिति / ये पुनर्यथोक्तकारिणो न स्युस्ते किम्भूता भवेयुरित्याह- समेमाणा इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तो' गायेनात्यर्थमासेवां कुर्वन्तस्तथा प्रलीयमानाः मनोज्ञेन्द्रियार्थेषु पौन:पुन्येनैकेन्द्रियद्वीन्द्रियादिकां जातिं प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः॥१२९॥ यद्येवमविदितवेद्याःसाम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीयमानाः पौन:पुन्येन कृतजन्मादिसन्धाना जन्तवस्ततःकिं कर्त्तव्यमित्याह____ अहो अराओय जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिक्कमिजासि // सूत्रम् १३०॥त्तिबेमि॥ सम्यक्त्वाध्ययने प्रथमोद्देशकः॥४-१॥ अहश्च रात्रिं च यतमान् एव यत्नवानेव मोक्षाध्वनि धीर: परीषहोपसर्गाक्षोभ्यः सदा सर्वकालं आगतं स्वीकृतं प्रज्ञानं सदसद्विवेको यस्य स तथा, प्रमत्तान् असंयतान् परतीथिकान्वा धर्माद्बहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याहअप्पमत्ते इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तःपराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा॥१३०॥ इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् / इति सम्यक्त्वाध्ययने प्रथमोद्देशकः॥ 8 // 315 // (r) केवलज्ञानावलोकेन दृष्टम् ततः शुश्रुषुभिः श्रुतम्, लघुकर्मणा (मु०)। 0 गाय॑ तात्पर्यमासेवां (प्र०)। 0 प्रलीनाः पौन:पुन्येन जन्मादिकृतसन्धाना (मु०)।