________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 313 // योद्यता उत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थितास्तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजग- | श्रुतस्कन्ध:१ त्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यम्, यदिवा उत्थितानुत्थितेषु द्रव्यतोऽपि निषण्णानिषण्णेषु, तत्रैकादशसु | चतुर्थमध्ययनं सम्यक्त्वं, गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तथोपस्थिता धर्मं शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थिता-2 | प्रथमोद्देशकः स्तेष्विति, निमित्तसप्तमी चेयम्, यथा चर्मणि द्वीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा / नियुक्तिः 225-226 युक्तिमती अनुपस्थितेषु तुकं गुणं पुष्णाति?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्मपरिणतेः क्षयोपशमापादनाद्गुण-8 सर्वप्राणाद्यवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाकायलक्षणः, उपरतो दण्डो येषां ते तथा, हिंसादिः तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते-सङ्गह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतोमाया, सह उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताःसंयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारि तत् तथ्यं सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनम्, यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति- तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वेप्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनिसमस्तदण्डप्रपञ्चोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र न हिंस्यात्सर्वभूतानी त्यभिधायान्यत्र वाक्ये यज्ञपशु // 313 // वधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति // 225-226 // तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तदर्शयितुमाह (r) दम्भप्रबन्धोपरते (मु०)।