SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 311 // भवति तदहं तत्त्वं ब्रवीमीति, येऽतीताः- अतिक्रान्ता येच प्रत्युत्पन्नाः- वर्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति श्रुतस्कन्धः१ सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालास्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां चतुर्थमध्ययनं सम्यक्त्वं, च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, प्रथमोद्देशकः तत्रोत्सर्गतःसमयक्षेत्रसम्भविनः सप्तत्युत्तरशतम्, तच्चैवं-पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् सूत्रम् 127 द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैवमैरावतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिताः पष्ट्युत्तरशतं (160) भरतैरावतदशप्रक्षेपण सर्वप्राणाद्य हिंसादिः सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं- पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापर-2 विदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः सत्तरसयमुक्कोसं इअरे दस समयखेत्तजिणमाणं। चोत्तीस पढमदीवे अणंतरऽद्धे य ते दुगुणा ॥१॥के इमे?- अर्हन्तो अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याधुपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यं-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनोजीवाजीवाम्रवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति-यथा सर्वे प्राणाः सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति // 311 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy