________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 310 // श्रुतस्कन्धः१ चतुर्थमध्ययन सम्यक्त्वं, प्रथमोद्देशकः नियुक्ति: 224 श्रमणत्वम् सूत्रम् 127 सर्वप्राणाद्यहिंसादिः यावत्कालेन यावत्कर्मायोगिकेवली क्षपयति तावन्मानं कर्म सयोगिकेवली सङ्खयेयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मं पिपृच्छिषुस्तावनेयमिति गाथाद्वयार्थः // 222-223 // एवमन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्चासावुपाधिस्तमाह नि०- आहारउवहिपूआइडीसुय गारवेसु कइतवियं / एमेव बारसविहे तवंमिन हु कइतवे समणो॥२२४॥ आहारश्च उपधिश्च पूजा च ऋद्धिश्च- आमर्पोषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासु ज्ञानचरणक्रियां करोति, तथा गारवेषु त्रिषु प्रतिबद्धो यत्करोति तत्कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेदर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यम्, दर्शनंच तत्त्वार्थश्रद्धानम्, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृद्भिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति से बेमि जे अईया जे य पडुपन्ना जे य आगमिस्सा अरहंता भगवंतो तव्वे एवमाइक्खन्ति एवं भासंति एवं पण्णविंति एवं परूविंतिसव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिघित्तव्या न परियावेयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिच्च लोयं खेयण्णेहिं पवेइए, तंजहा- उट्ठिएसु वा अणुट्ठिएसु वा उवट्ठिएसु वा अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसुवासोवहिएसुवा अणोवहिएसुवा संजोगरएसुवा असंजोगरएसुवा, तच्चंचेयंतहा चेयं अस्सिं चेयंपवुच्चइ॥सूत्रम् 127 // गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यक्त्वं // 310 //