________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 307 // नि०-तिविहं तु भावसम्मंदसण नाणे तहा चरित्ते य / दसणचरणे तिविहं नाणे दुविहं तु नायत्वं // 218 // श्रुतस्कन्ध:१ त्रिविधं भावसम्यक्-दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येकं त्रिविधे, तद्यथा-अनादि चतुर्थमध्ययन सम्यक्त्वं, मिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थे- प्रथमोद्देशकः मिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुत्पादयत औपशमिकं दर्शनं 1, उक्तं च-ऊसरदेसं नियुक्ति: 218 सम्यक्त्वदड्डेल्लयं च विज्झाइ वणदवो पप्प। इय मिच्छत्ताणुदए उवसमसम्मं लहइ जीवो॥१॥ उपशमश्रेण्यां चौपशमिकमिति 2, तथा निक्षेपाः सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं 2, दर्शनमोहनीयक्षयात् क्षायिकं 3, चारित्रमप्युपशमश्रेण्यामौपशमिकं 1, कषायक्षयोपशमात् क्षायोपशमिकं चारित्रं 2, चारित्रमोहनीयक्षयात्क्षायिकं 3, ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यम्, तद्यथा-क्षायोपशमिकं क्षायिकंच, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानम्, समस्तक्षयात्क्षायिकं केवलज्ञानमिति / तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो? यदिहाध्ययने व्यावर्ण्यते, उच्यते, तद्भावभावित्वादितरयोः, तथाहि- मिथ्यादृष्टेस्ते। नस्तः, अत्र चसम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाद्यवबोधार्थं दृष्टान्तमाचक्षते- तद्यथा- उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयम्, तत्र वीरसेनोऽन्धः, सच तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाघ्यां पदवीमगमत्, एतच्चसमाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे, तेन चारूढयौवनेन (r) ऊषरदेशं दग्धं च विध्याति वनदवः प्राप्य। एवं मिथ्यात्वानुदये औपशमिकसम्यक्त्वं लभते जीवः // 1 // // 307 //