SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 308 // श्रुतस्कन्ध:१ चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः नियुक्तिः 219-221 सम्यग्निमथ्यादृष्टयो: सिद्ध्यसिद्धी स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छ्य निशितशरशतजालावष्टब्धपरानीकेन मोचितः।। 218 // तदेवमभ्यस्तविज्ञानक्रियोऽपिचक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति / एतदेव नियुक्तिकारोगाथयोपसंहर्तुमाह नि०- कुणमाणोऽविय किरियं परिचयंतोवि सयणधणभोए।दितोऽवि दुहस्स उरं न जिणइ अंधो पराणीयं / / 219 // __कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः // 219 // तदेवं दृष्टान्तमुपदर्य दार्टान्तिकमाह नि०-कुणमाणोऽवि निवित्तिं परिचयंतोऽविसयणधणभोए। दितोऽवि दुहस्स उरं मिच्छद्दिवीन सिज्झइ उ // 220 // कुर्वन्नपि निवृत्तिं- अन्यदर्शनाभिहिताम्,तद्यथा- पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पञ्चाग्नितपआदिना दददपिदुःखस्योरःमिथ्यादृष्टिर्न सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये // 220 // यत एवं ततः किं कर्त्तव्यमित्याह नि०- तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा / दंसणवओ हि सफलाणि हुंति तवनाणचरणाई॥२२१॥ __ यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्, तस्मात्कारणात्कानीकंजेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तद्दर्शयति-दर्शनवतो हि हिः हेतौ यस्मात्सम्यग्दर्शनिनः सफलानि भवन्ति तपोज्ञानचरणान्यतस्तत्र यत्नवता भाव्यमिति गाथार्थः / / 221 // प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह // 308 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy