SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 306 // तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं श्रुतस्कन्धः१ तस्मात् ज्ञानदर्शनतपश्चरणेषु मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः // 214-215 // चतुर्थमध्ययनं सम्यक्त्वं, अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह प्रथमोद्देशकः नि०- नामंठवणासम्मं दव्वसम्मंच भावसम्मंच। एसोखलु सम्मस्सा निक्खेवो चउव्विहो होइ॥२१६॥ नियुक्तिः 216-217 अक्षरार्थः सुगमः, भावार्थं तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराह सम्यक्त्वनि०- अह दव्वसम्म इच्छाणुलोमियं तेसु तेसुदवेसुं। कयसंखयसंजुत्तो पउत्त जढ भिण्ण छिण्णं वा // 217 // निक्षेपाः 8 अथे त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, ऐच्छानुलोमिक इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोम अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षु द्रव्येषु कृताधुपाधिभेदेन सप्तधा भवति, तद्यथाकृतं-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक्कर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् 1, एवं संस्कृतेऽपि योज्यम्, तस्यैव रथादेर्भग्नजीर्णापोढापरावयवसंस्कारादिति 2, तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयःशर्करयोरिव तत्संयुक्तद्रव्यसम्यक् 3, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् 4, पाठान्तरं वा-उवउत्त / त्ति यदुपयुक्तं-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् 4, तथा जढं-परित्यक्तं यद्धारादि तत्त्यक्तद्रव्यसम्यक् 5, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेर्भिन्नद्रव्यसम्यक् 6, तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक् 7, सर्वमप्येतत्समाधानकारणत्वाइव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः // 217 ॥भावसम्यक्प्रतिपादनायाह // 3
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy