________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 305 // श्रुतस्कन्धः 1 चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः नियुक्तिः 214-215 अर्थाधिकारः // अथ चतुर्थमध्ययनं सम्यक्त्वाख्यम् // ॥प्रथमोद्देशकः॥ उक्तं तृतीयमध्ययनम्, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः- इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितम्, तद्वधे बन्धं विरतिं च भणताऽऽस्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यत इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम्, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनाय तु नियुक्तिकार आह नि०- पढमे सम्मावाओ बीए धम्मप्यवाइयपरिक्खा। तइए अणवज्जतवोन हु बालतवेण मुक्खुत्ति // 214 // नि०- उद्देसंमिचउत्थे समासवयणेण णियमणं भणियं / तम्हा य नाणदसणतवचरणे होइ जइयत्वं / / 215 // प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादो- यथावस्थितवस्त्वाविर्भावनम्, द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्मा प्रवदितुंशीलं येषां ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थस्तेषां परीक्षायुक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनम्, नच बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु समासवचनेन सद्धेपवचनेन नियमनं भणितं संयम उक्त इति / तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तम्, द्वितीये तु सम्यग्ज्ञानम्,