________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 304 // नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी।से मेहावी अभिणिवट्टिजा कोहं च माणंच मायंच लोभंच पिल्लं श्रुतस्कन्ध:१ च दोसंच मोहंच गब्भंच जम्मंचमारंच नरयं च तिरियं च दुक्खं च / एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं तृतीयमध्ययनं निसिद्धासगडब्भि, किमत्थि ओवाही पासगस्स? न विजइ?, नत्थि॥ सूत्रम् 126 // तिबेमि॥शीतोष्णीयाध्ययनम् / / शीतोष्णीयं, चतुर्थोद्देशकः यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः सूत्रम् 126 क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यम्, यावत् स दुःखदर्शीति, सुगमत्वान्न कषायवमने विवियते / साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह-से इत्यादि, स मेधावी अभिनिवर्त्तयेद् व्यावर्त्तयेत्, किंतत्?-'क्रोधमित्यादि तीर्थकृदुपदेशः यावहुःखम्, सुगमत्वाद्व्याख्यानाभावः, स्वमनीषिकापरिहारार्थमाह- एय मित्यादि, एतद् अनन्तरोक्तमुद्देशकादेरारभ्य। पश्यकस्य-तीर्थकृतो दर्शनं-अभिप्रायः, किम्भूतस्य?- उपरतशस्त्रस्य पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ?-आयाण मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किंचास्य भवतीत्याह- किमत्थी त्यादि, पश्यकस्य केवलिनः उपाधिः विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म,स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास (य) ता. सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति / गतः सूत्रानुगमः, तद्गतौच समाप्तश्चतुर्थोद्देशकः॥१२६॥तत्समाप्तौ चातीतानागतनयविचारातिदेशात् समाप्तंशीतोष्णीयाध्ययनमिति ॥ग्रन्थाग्रम् 790 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ तृतीयममध्ययनं शीतोष्णीयाख्यं समाप्तम्॥ // 30