________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 301 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, चतुर्थोद्देशक: सूत्रम् 124 कषायवमने तीर्थकृदुपदेशः बहुदुःखसम्भव इति दर्शयति- दुक्ख मित्यादि, दुःखं असातोदयस्तत्कारणं वा कर्म तत् लोकस्य भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात्, कथं तदभावः? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह- वंता इत्यादि, वान्त्वा त्यक्त्वा लोकस्य- आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः संयोगं ममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतुं तद्धेतुकर्मोपादानकारणं वा यान्ति गच्छन्ति वीराः कर्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानंचारित्रं तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच्च तद्यानं च महायानम्, यदिवा महद्यानं- सम्यग्दर्शनादित्रयं यस्य स महायानो- मोक्षस्तं यान्तीति सम्बन्धः / स्यात् किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण?, उभयथाऽपि ब्रूमः, तद्यथा-अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयति- परेण पर मित्यादि, सम्यक्त्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण-संयमेनोद्दिष्टविधिना परं स्वर्गं पारम्पर्येणापवर्गमपि यान्ति, यदिवा परेण सम्यग्दृष्टिगुणस्थानेन परं देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद्गतं किंवाशेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वंनाभिलषन्तीत्यर्थः, असंयमजीवितं धीरा (मु०)। // 301 //