________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 297 // वाच्यम्, तदेवम्भूतात्प्रपञ्चान्मुच्यते-चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् / इतिः परिसमाप्तौ, ब्रवीमीति, श्रुतस्कन्धः१ पूर्ववत् // 121 / / इति शीतोष्णीयाध्ययने तृतीयोद्देशकः समाप्तः॥ | तृतीयमध्ययनं शीतोष्णीयं, चतुर्थोद्देशकः // तृतीयाध्ययने चतुर्थोद्देशकः॥ सूत्रम् 122 कषायवमने 8 उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पापकर्माकरणतया दुःखसहना तीर्थकृदुपदेशः देव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितम्, निष्प्रत्यूहता च कषायवमनाद्भवति, तदधुना प्रागुद्देशार्थाधिकारनिर्दिष्टं प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं सेवंता कोहंच माणंच मायंच लोभंच, एयंपासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणंसगडब्भि॥सूत्रम् 122 // __स ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं चल वमिता टुवम् उद्गिरणे इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यम्, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्वो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य चक्रोधादिक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनस्वगतभेदाविर्भाव (r) क्रोधं वमिता (प्र०)। // 227 //