________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 296 // श्रुतस्कन्धः१ | तृतीयमध्ययनं | शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 121 प्रमत्ताप्रमत्त लक्षणम् परिवन्दनं-परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरमालोक्य मांजनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान्, जीव्यास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादि परिवन्दनम्, तथा माननार्थं कर्मोपचिनोति, दृष्टौरसबलपराक्रम मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहानयिष्यन्तीत्यादि माननम्, तथा पूजनार्थमपि प्रवर्त्तमानः कर्मानवैरात्मानं भावयति, मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां करिष्यतीत्यादि पूजनम्, तदेवमर्थ कर्मोपचिनोति / किंच-जंएगे इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः // 120 // एतद्विपरीतं त्वाह सहिओदुक्खमत्ताए पुट्ठो नो झंझाए,पासिमंदविए लोकालोकपवंचाओ मुच्चइ / / सूत्रम् 121 / तिबेमि॥॥शीतोष्णीयाध्ययने तृतीयोद्देशः / / 3-3 // & सहितो- ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन्नो झंझाए त्ति नोव्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझञ्झाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः / किं च- पासिम मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थं पश्य परिच्छिन्द्धि कर्तव्याकर्त्तव्यतया विवेकेनावधारय कोऽसौ ?- द्रव्यभूतो- मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवाप्नोति?आलोक्यत इत्यालोकः, कर्मणि घञ्, लोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः- पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि 0जीवास्त्वं (मु०)। (c) प्रवर्त्तमानाः.....भावयन्ति (मु०)। 0 जं सेगे (प्र०)। // 296 //