SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 295 / / प्रमत्ताप्रमत्त यं पुरुषं जानीयात् परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारं-अपनेतारं तं जानीयाद् दूरालयिकमिति, दूरे श्रुतस्कन्धः१ सर्वहेयधर्मेभ्य इत्यालयो दूरालयः- मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्धावं तृतीयमध्ययनं शीतोष्णीयं, दर्शयितुं गतप्रत्यागतसूत्रमाह- जं जाणेज्जे त्यादि, यं जानीयाद्दूरालयिकं तु जानीयादुच्चालयितारमिति, एतदुक्तं भवति- यो हि तृतीयोद्देशकः कर्मणां तदास्रवद्वाराणां चोच्चालयिता- अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स कर्मणा सूत्रम् 120 मुच्चालयितेति, सच आत्मनो मित्रमतोऽपदिश्यते-पुरिसा इत्यादि, हे जीव! आत्मानमेवाभिनिगृह्य धर्मध्यानाबहिर्विषयाभि लक्षणम् वङ्गाय निःसरन्तमवरुध्य ततः एवं अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्मणां उच्चालयिताऽऽत्मनो मित्रं भवति। अपि च- पुरिसा इत्यादि, हे पुरुष! सद्भयो हितः सत्यः- संयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहिआसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहि गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यःआगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनम् / किमर्थमेतदिति चेदाह- सच्चस्से त्यादि, सत्यस्यआगमस्याज्ञयोपस्थितः सन् मेधावी मारं संसारं तरति, किं च- सही त्यादि, सहितो- ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः धर्मं श्रुतचारित्राख्यं आदाय गृहीत्वा, किं करोतीत्याह- श्रेयः पुण्यमात्महितं वा सम्यग्- अविपरीततयाऽनुपश्यति समनुपश्यति // 119 // उक्तोऽप्रमत्तः / तद्गुणाश्च, तद्विपर्ययमाहदुहओजीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति // सूत्रम् 120 // 8 // 295 // द्विधा-रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थं वा यदिवा द्वाभ्यां- रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद्?-जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तते, / /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy