________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 294 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 119 प्रमत्ताप्रमत्त लक्षणम पुरिसा इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह- पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषोजन्तुः, पुरुषद्वारामन्त्रणंतु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते- यथा हे पुरुष- हे जीव! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रम्, विपर्ययाच्चामित्रः, किमिति बहिर्मित्रमिच्छसि?-मृगयसे, यतो झुपकारि मित्रम्, सचोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुम्, योऽपि संसारिसुखसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितम्, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात् विपर्ययाच्च विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि-दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं / सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च॥१॥ तथाअप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः। मरणानि त्वनन्तानि, जन्मानि च करोत्ययम्॥१॥॥११८ // यो हि निर्वाणनिर्वर्त्तकं व्रतमाचरति स आत्मनो मित्रम्, स चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याह जंजाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जंजाणिज्जा दूरालइयंतंजाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्ा एवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समणुपस्सइ।सूत्रम् 119 // "दुष्प्रस्थितोऽमित्र आत्मा सुप्रस्थितश्च ते मित्रम्। सुखदुःखकारणात् आत्मा मित्रममित्रश्च / / 1 // ॐ वृत्तमा० (प्र०)। 294