________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 293 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, तृतीयोद्देशक: सूत्रम् 118 प्रमत्ताप्रमत्त लक्षणम् अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-निज्झोस इत्यादि, पूर्वोपचितकर्मणां निझोषयिता-क्षपकः क्षपयिष्यति वा तृजन्तमेतल्लुडन्तं वा // 117 // कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सव्वं हासं परिच्चन्ज आलीणगुत्तो परिवए, पुरिसा!- तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि?॥सूत्रम् 118 // इष्टाप्राप्तिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावाप्तावानन्दः, योगिचित्तस्य तु धर्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते-केयमरति म को वाऽऽनन्द इति?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति / एवं तहरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह- एत्थंपी त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते ग्रहो गाद्ध्यं तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्- अवतिष्ठेत, इदमुक्तं भवति-शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति / पुनरप्युपदेशदानायाह-सव्व मित्यादि, सर्वं हास्यं तदास्पदं वा परित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिः-समन्ताद्वजेत् परिव्रजेत्-संयमानुष्ठानविधायी भवेदिति / तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति (r) परोपाधिनेति (प्र०)। // 293 //