________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 292 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 117 प्रमत्ताप्रमत्त लक्षणम् पूर्वानुभूतं विषयसुखोपभोगादि न स्मरन्ति न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति, किं च- अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यं- आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तु भाषन्ते- एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह से अईअंतह आगमिस्सं॥१॥ अपरेण जन्मादिना सार्धं पूर्वं- अतिक्रान्तं जन्मादि न स्मरन्ति, कथं वा केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्ध्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकषायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽ-8 तिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतदर्शयितुमाह- नाईय मित्यादि, तथैवअपुनरावृत्त्या गतं- गमनं येषां ते तथागताः- सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गतं- ज्ञानं येषां ते तथागताः- सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थम्, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकंनाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति, के?, तथागता:- रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति / तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-विहूयकप्पे इत्यादि, विविधं- अनेकधा धूतं- अपनीतमष्टप्रकारं कर्म येन स विधूतः, कोऽसौ? कल्प:- आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, // 292 //