________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 298 // नाय व्यस्तनिर्देशः, चशब्दस्तुपर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः क्रोधस्य,शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको | श्रुतस्कन्ध:१ मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः,कृमिरागकईमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तृतीयमध्ययनं शीतोष्णीयं, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति / तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, चतुर्थोद्देशक: न तत्सम्भवे सति, यत उक्तं- सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुति। मन्नामि उच्छुपुप्फ व निप्फलं तस्स सामण्णं // 1 // सूत्रम् 122 कषायवमने अजिअं चरित्तं देसूणाएवि पुबकोडीए / तंपि कसाइयमेत्तो हारेइ नरो मुहत्तेणं॥२॥। स्वमनीषिकापरिहारार्थं गौतमस्वाम्याह-एय तीर्थकृदुपदेशः मित्यादि, एतद् यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शनं सर्वं निरावरणत्वात्पश्यति उपलभत इति पश्यः स एव है पश्यकः- तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनं- अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनं- उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह- उवरय इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः,भावशस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः, इदमुक्तं भवति- तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्त्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह- पलियंतकरस्स पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः / यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-आयाण मित्यादि, आदीयते गृह्यते आत्मप्रदेशैः ®श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति / मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम् // 1 // यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोट्या / तदपि कषायितमात्रो हारयति नरो मुहूर्तेन // 2 // ॐ भावे शस्त्रं (मु०)। // 298 //