________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 290 // समतादृष्ट्या वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् / आत्मप्रसन्नता च संयमस्थस्य श्रुतस्कन्धः१ भवति, तत्राप्रमादवता भाव्यमित्याह च- अणण्णपरम मित्याद्यनुष्टुप्, न विद्यतेऽन्यःपरमः- प्रधानोऽस्मादित्यनन्यपरमः तृतीयमध्ययनं | शीतोष्णीयं, संयमस्तं ज्ञानी परमार्थवित् नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि, यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह तृतीयोद्देशकः आयगुत्ते इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा सर्वकालं यात्रा-संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च सूत्रम् 117 प्रमत्ताप्रमत्त अच्चाहारोन सहे इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं लक्षणम् भवति, उक्तं च आहारार्थं कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसन्धारणार्थम्। प्राणा: धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥१॥सैवात्मगुप्तता कथं स्यादिति चेदाह-विराग मित्यादि, विरञ्जनं विरागस्तं विरागंरूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु / गच्छेद् यायात्, रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात्, महतादिव्यभावेन यव्यवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति विसयंमि पंचगंमीवि, दुविहमि तियं तियं। भावओ सुङ जाणित्ता, से न लिप्पइ दोसुवि॥ १॥शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः- परमार्थतः सुष्ठु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते, तदकरणादिति भावः, स्यात्- किमालम्ब्यैतत्कर्त्तव्यमित्याहआगइ मित्यादि, आगमनं- आगतिः सा च तिर्यमनुष्ययोश्चतुर्दा, चतुर्विधनरकादिगत्यागमनसद्भावाद, देवनारकयोर्द्वधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद्, एवं गतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ रागद्वेषौ ताभ्यां // 290 //