________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 289 // श्रुतस्कन्ध:१ तृतीयमध्ययनं शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 117 प्रमत्ताप्रमत्त लक्षणम् पापकर्म न करोति?, काक्वा पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठानविधायी न सञ्जज्ञे किमेतावतैव मुनिरसौ?, नैव मुनिरित्यर्थः, अद्रोहाध्यवसायो हि मुनिभावकारणम्, स च तत्र न विद्यते, अपरोपाध्यावेशात्, विनेयो वा 0 पृच्छति- यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति?, आचार्य आह- सौम्य! निरस्तापरव्यापारः शृणु जमिण-मित्यादि, अपरोपाधिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतःशुभान्त:करणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयं तावन्निश्चयनयाभिप्रायो व्यवहाराभिप्रायेण तूच्यते यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुवा॑द्याराध्यभयेन गौरवेण वा केनिचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताःक्रियाः करोति, तत्र तस्य मुनिभाव एव कारणम्, तव्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः॥ 116 // तदेवं शुभान्त:करणव्यापारविकलस्य मुनित्वे सदसद्भावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आह समयं तत्थुवेहाए अप्पाणं विप्पसायए- अणन्नपरमं नाणी, नो पमाए कयाइवि। आयगुत्ते सया वीरे, जायामायाइ जावए॥ सू०गा० 10 // विरागं रूवेहिं गच्छिज्जा महया खुड्डएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइन भिज्जइ न डज्झइ न हमइ कंचणं सव्वलोए।सूत्रम् 117 // समभावः समता तांतत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं लज्जादिना जनविदितं चोपवासादि तत्सर्वं मुनिभावकारणमिति, यदिवा समयं-आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत्सर्वं मुनिभावकारणमिति भावार्थः, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादये विविधं प्रसादयेदागमपर्यालोचनेन