________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 288 // श्रुतस्कन्धः 1 तृतीयमध्ययनं शीतोष्णीयं, तृतीयोद्देशक: सूत्रम् 116 प्रमत्ताप्रमत्त लक्षणम् शान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षण : सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान्, एवं मुमुक्षोरपि कर्मविवरमासाद्य क्षणमपि / पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, स च भावसन्धिर्ज्ञानदर्शनचारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतः पुनः सन्धानं-मीलनम्, एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शन-2 चारित्रार्हे भावसन्धिं ज्ञात्वा तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानंन कुर्यात् / सर्वत्रात्मौपम्यं समाचरेदित्याह-आयओ इत्यादि, यथा ह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य अवधारय / तदेवमात्मसमतां सर्वप्राणिनामवधार्य किंकर्तव्यमित्याह- तम्हा इत्यादि, यस्मात्सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्ता न व्यापादकः स्यान्नाप्यपरैस्तान जन्तून विविधैः-नानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डिनो नघ्नन्ति तथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्घातयन्ति / न चैकान्तेन पापकर्मा-करणमात्रतया श्रमणो भवतीति। दर्शयति- जमिण मित्यादि, यदिदं- यदेतत् पापकर्माकरणताकारणम्, किं तद्?, दर्शयति- अन्योऽन्यस्य परस्परं या विचिकित्सा- आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं कर्म- पापोपादानं / कर्मानुष्ठानं न करोति न विधत्ते, किं प्रश्ने क्षेपे वा, तत्र तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात्?, किं मुनिरितिकृत्वा लवक्षणमपि (मु०)। // 288 //