________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 287 // प्रत्याख्यानपरिज्ञया परित्यजेत्, किंच-सोय मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयम चरेदिति, किमभिसन्धाय संयम चरेदित्याह- उम्मज्ज लडु मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारहदे जीवकच्छपः श्रुतिश्रद्धासंयमवीर्यरूपमुन्मज्जनमासाद्य- लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुषेष्वित्युक्तम्, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह- नो पाणिण मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्पञ्चेन्द्रियत्रिविधबलोच्छ्रासनिश्वासायुष्कलक्षणान् नो समारभेथाः न व्यपरोपयेः, तदुपघातकार्यनुष्ठानमा कृथा इत्युक्तं भवति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् // इति शीतोष्णीयाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, तृतीयोद्देशकः सूत्रम् 116 प्रमत्ताप्रमत्त लक्षणम् ॥तृतीयाध्ययने तृतीयोद्देशकः॥ | उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितम्, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापाकाकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, अतोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं संधिं लोयस्य जाणित्ता, आयओ बहिया पास, तम्हा न हंता न विघायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेड़ पावं कम्मं, किं तत्थ मुणी कारणं सिया?॥सूत्रम् 116 // तत्र सन्धिर्द्रव्यतो भावतश्च, तत्र द्रव्यतः कुड्यादिविवरं भावतः कर्मविवरम्, तत्र दर्शनमोहनीयं यदुदीर्णं तत्क्षीणं शेषमुपॐ ततोऽनेन (प्र०)। // 287 //