SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 284 // श्रुतस्कन्ध:१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 114-115 निष्कर्मदर्शिनः स्वरूपम् ज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति, किं च- एत्थोवरए इत्यादि, अत्र अस्मिन् संयमे भगवद्वचसि वा उपसामीप्येन रतो- व्यवस्थितो मेधावी तत्त्वदर्शी सर्वं अशेषं पापं कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति-शोषयति क्षयं नयतीति-यावत् / / 113 // उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवतीत्याह अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए।सूत्रम् 114 / / अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासावनेकचित्तः, खलुरवधारणे, संसारसुखाभिलाष्यनेकचित्त एव भवति, अयं पुरुष इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति / यश्चानेकचित्तो भवति स किं कुर्यादित्याह- से केयण मित्यादि, द्रव्यकेतनं चालनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभूतपूर्वं पूरयितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपि प्रवर्तत इत्युक्तं भवति,सचलोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह-से अण्णवहाए इत्यादि,सलोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय, तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय, जनपदे भवा जानपदाः कालप्रष्ठादयो राजादयो वा तद्वधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय दस्युरयं पिशुनो वेत्येवं मर्मोद्धट्टनाय, तथा जनपदानां- मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः॥ 114 // किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति आसेवित्ता एतं (वं) अटुं इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणि, उववायंचवणं णच्चा, अणण्णं चर // 284
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy