SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 283 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 113 निष्कर्मदर्शिनः स्वरूपम् राणि समचतुरस्रं 6 अङ्गोपाङ्ग 7 वर्णादिचतुष्टयं 11 आनुपूर्वी 12 अगुरुलघू 13 पघात 14 पराघात 15 उच्छ्रासाः 16 प्रशस्तविहायोगति: 17 त्रसं 18 बादरं 19 पर्याप्तकं 20 प्रत्येकं 21 स्थिराँस्थिरयोरन्यतरत् 22 शुभाशुभयोरन्यतरत् 23 सुभगं २४सुस्वरं २५आदेयं 26 यशःकीर्त्ययश:कीोरन्यतरत् 27 निर्माणमिति 28, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत्-देवगतिः१ पञ्चेन्द्रियजातिः 2 वैक्रिया 3 हारका 4 ङ्गोपाङ्ग६चतुष्टयं तैजस 7 कार्मणे 8 संस्थानमाद्यं 9 वर्णादिचतुष्कं 13 आनुपूर्वी 14 अगुरुलघू 15 पघातं 16 पराघातं 17 उच्छासं 18 प्रशस्तविहायोगतिः 19 त्रसं 20 बाद 21 पर्याप्तकं 22 प्रत्येकं 23 स्थिरं 24 शुभं 25 सुभगं 26 सुस्वरं 27 आदेयं 28 यश:कीर्त्ति 29 निर्माण 30 मिति च बध्नत एकं बन्धस्थानं 6, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् 7, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद्यशःकीर्तिमेव बनत: एकविधं बन्धस्थानमिति 8, तत ऊर्दू नाम्नो बन्धाभाव इति / गोत्रस्य सामान्येनैकं बन्धस्थानं- उच्चनीचयोरन्यतरत्, योगपद्येनोभयोर्बन्धाभावो विरोधादिति। तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणाम्, तच्च बहु कर्म प्रकृतं बद्धं प्रकटं वा, तत्कार्यप्रदर्शनात्, खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बढेव तत्कर्म / यदि नामैवं ततस्तदपनयथार्थं किं कर्तव्यमित्याह सच्चंमि धिई कुव्वह, एत्थोवरए मेहावी सव्वं पावं कम्मं सोसइ ।सूत्रम् 113 // सद्भ्यो हितः सत्यः-संयमस्तत्र धृतिं कुरुध्वम्, सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्र भगवदा© स्थिरं (प्र०)। 0 शुभं . (प्र०)। // 283 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy