SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 282 // स्वरूपम् स्त्यानर्द्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्डिधं 2, अपूर्वकरणसङ्खयेयभागे निद्राप्रचलयोर्बन्धोपरमे चतुर्विधं श्रुतस्कन्धः१ बन्धस्थानं 3 / वेदनीयस्यैकमेव बन्धस्थानं- सातमसातं वा बध्नतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात्। तृतीयमध्ययनं शीतोष्णीयं, मोहनीयबन्धस्थानानि दश, तद्यथा- द्वाविंशतिः- मिथ्यात्वं१षोडश कषाया 17 अन्यतरवेदो 18 हास्यरतियुग्मारतिशोक द्वितीयोद्देशकः युग्मयोरन्यतर 20 द्भयं 21 जुगुप्सा 22 चेति 1, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः२, सैव सम्यग्मिथ्या- सूत्रम् 112 निष्कर्मदर्शिनः दृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं 3, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं 4, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनांप्रत्याख्यानावरणबन्धाभावान्नवविधं 5, एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्पञ्चविधं 6, ततोऽनिवृत्तिकरणसङ्खयेयभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं 7, ततोऽपि तस्मिन्नेव सङ्खयेयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभसञ्जवलनानां क्रमेण बन्धोपरमात्त्रिविधं 8 द्विविध 91 मेकविधं 10 चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्याबन्धकः। आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, व्यादेयौगपद्येन बन्धाभावो विरोधादिति / नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भगं अनादेयं अयशःकीर्तिनिर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेर्भवति 1, इयमेव पराघातोच्छ्राससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं 2, इयमेव चातपोद्योतान्यतरसमन्विता षड्रिंशतिः, नवरं बादरप्रत्येके एव वाच्ये 3, तथा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, तथाहि-देवगतिः१ पञ्चेन्द्रियजाति: 2 वैक्रिय 3 तैजस 4 कार्मणानि 5 शरी // 282 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy