________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 281 // मुनिदृष्ट संसाराद्भयं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव / किं च- लोगंसि इत्यादि, लोकेद्रव्याधारे चतुर्दश- श्रुतस्कन्धः१ भूतग्रामात्मके वा परमो- मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा विविक्तं स्त्रीपशुपण्डकसमन्वित तृतीयमध्ययनं शीतोष्णीयं, शय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसङ्क्लिष्टं जीवितुंशीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियो द्वितीयोद्देशकः पशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो- गतो मोक्षमार्गे समितः, यश्चैवंस ज्ञानादिभिः सहितः- सूत्रम् 112 निष्कर्मदर्शिनः समन्वितो, यश्च ज्ञानादिसहितः स सदा यतः- अप्रमादी। किमवधिश्चायमनन्तरोक्तो गुणोपन्यास इत्याह- काल इत्यादि, स्वरूपम् कालो-मृत्युकालस्तमाकानितुंशीलमस्येति कालाकाङ्क्षी स एवम्भूतः परिः-समन्तात्व्रजेत्परिव्रजेत, यावत्पर्यायागतं पण्डितमरणं तावदाकाशमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति / स्यादेतत्- किमर्थं एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्थागतं कर्म तच्च न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङ्कीत्युक्तम्, तत्र बन्ध-स्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथा- सर्वमूलप्रकृतीबंध्नतोऽन्तमुहूर्तं यावदष्टविधम्, आयुष्कवज सप्तविधम्, तज्जघन्येनान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसाम्परायिकस्य : मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्दिधम्, एतच्च जघन्यतःसामयिकमुत्कृष्टतस्त्वन्तर्मुहर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनांसप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानम्, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटिकालीयम्। इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वाद्वन्धस्थानम्, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि- निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं 1, ततः // 281