________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सूत्रम् 112 निष्कर्मदर्शिनः स्वरूपम् // 280 // दर्शिता॥१॥ तथा चागमः कहण्णं भंते! जीवा अट्ठ कम्मपगडीओ बंधति?, गोयमा! णाणावरणिज्जस्स उदएणं दरिसणावरणिज्ज कम्मं नियच्छइ, दरिसणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणीयं कम्मं नियच्छइ, दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ, क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च नायगंमि हते संते, जहा सेणा विणस्सई। एवं कम्मा विणस्संति, मोहणिज्जे खयं गए॥१॥ इत्यादि, अथवा मूलं- असंयमः कर्म वा, अग्रंसंयमतपसी मोक्षोवा ते मूलाग्रे धीरः अक्षोभ्योधीविराजितोवा विवेकेन दुःखसुखकारणतयाऽवधारय। किंच-पलिच्छिदिया / ण मित्यादि, तपःसंयमाभ्यांरागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति तच्छीलश्च निष्कर्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति // यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह___ एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिवए, बहुं चखलु पावं कम्मं पगडं। सूत्रम् 112 // एष इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शी मरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते। यश्चैवंस किम्भूतो भवतीत्याह-से हुइत्यादि, सः अनन्तरोक्तो Oकथं भदन्त! जीवा अष्ट कर्मप्रकृतीर्बध्नन्ति?, गौतम! ज्ञानावरणीयस्योदयेन दर्शनावरणीयं कर्म बध्नन्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म बध्नन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बध्नन्ति, मिथ्यात्वेनोदितेनैवं खलु जीवा अष्ट कर्मप्रकृतीर्बध्नन्ति / नायके हते सति यथा सेना विनश्यति / एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते // 1 // R // 28 //