________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 278 // सू०गा०५ जातिं वृद्धिं च तत्कारणं कर्म कार्यं च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व / किं चापरं-2 श्रुतस्कन्धः१ भूएहि मित्यादि, भूतानि- चतुर्दशभूतग्रामास्तैः सममात्मनः सातं- सुखं प्रत्युपेक्ष्य पर्यालोच्य जानीहि, तथाहि-यथा त्वं तृतीयमध्ययनं शीतोष्णीयं, सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः, एवं च। द्वितीयोद्देशकः जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च- यथेष्टविषयाः सातमनिष्टा इतरत्तव। अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने // 1 // यद्येवं सम्यक्त्वदर्शिततः किमित्याह- तम्हा इत्यादि, तस्माद्'जातिवृद्धिसुखदुःखदर्शनादतीव विद्या- तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स परमं लक्षणम् मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति / पापस्य च मूलं. स्नेहपाशास्तदपनोदार्थमाह उम्मुंच पासंइह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी।कामेसु गिद्धा निचयं करंति, संसिच्चमाणा पुणरिंति गम्भं / सू०गा०५॥ इह मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन मुश्च अपाकुरु,स हि कामभोगलालसस्तदादानहेतोहिँसादीनि पापान्यारभते अतोऽपदिश्यते- आरंभ इत्यादि, आरम्भेण जीवितुंशीलमस्यत्यारम्जीवी- महारम्भपरिग्रहपरिकल्पितजीवनोपायं भयं- शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च-कामेसु इत्यादि, कामा- इच्छामदनरूपास्तेषु गृद्धाः- अध्युपपन्ना निचयं- कर्मोपचयं कुर्वन्ति / यदि नामैवं ततः किमित्याह-'संसिच्च' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति / तदेवमनिभृतात्मा किंभूतो भवतीत्याह (r) नोपाय: उभयं (मु०)। // 278 //