________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 277 // लक्षणम् वास मेधावी मर्यादाव्यवस्थितःसन् पराक्रमेत संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषड़गंवाऽष्टप्रकारंवा कर्मावष्ट- श्रुतस्कन्धः१ भ्याद् // 111 // इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् / इति शीतोष्णीयाध्ययने प्रथमोद्देशकः समाप्तः / / तृतीयमध्ययनं शीतोष्णीयं, द्वितीयोद्देशकः सू०गा०४ // तृतीयाध्ययने द्वितीयोदेशकः॥ सम्यक्त्वदर्शिउक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषांक स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं जाइंच वुद्धिं च इहऽज्ज! पासे, भूएहि जाणे पडिलेह सायं / तम्हाऽतिविज्जे परमंति णच्चा, संमत्तदंसी न करेइ पावं ॥सूगा०४॥ जातिः- प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिरिह मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च पश्य अवलोकय, इदमुक्तं भवति- जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च- जायमाणस्स जंदुक्खं, मरमाणस्स जंतुणो / तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो॥१॥विरसरसियं रसंतो तो सो जोणीमुहाउ निप्फिडइ / माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो॥ 2 // तथा- हीणभिण्णसरो दीणो, विवरीओ विचित्तओ। दुब्बओ दुक्खिओ वसइ, संपत्तो चरिमं दसं॥ 3 // इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! Oजायमानस्य यदुःखं म्रियमाणस्य जन्तोः / तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः॥१॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति / मातुरात्मनोऽपि च वेदनामतुलां जनयन् // 2 // हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः। दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् // 3 // // 277