________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 274 / / जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतो देशोनां पूर्वकोटिं यावत्, पुनरूर्द्ध पञ्चह्रस्वाक्षरोगिरणकालीयां शैलेश्यवस्थामनुभूयाकर्मा श्रुतस्कन्धः१ भवति।साम्प्रतमुत्तरप्रकृतीनांसदसत्कर्मताविधानमुच्यते-तत्रज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि तृतीयमध्ययनं शीतोष्णीयं, जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्माता। दर्शना प्रथमोद्देशकः वरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा- नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, सूत्रम् 110 मुनिस्वरूपम् गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्खयेयभागान् यावत् 1, ततः कतिचित्सङ्खयेयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं 2, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतुःसत्कर्मतास्थानम्, तस्यापि क्षयः क्षीणकषायकालान्त इति 3 // वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकम् , अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं / मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा- षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः 1, सम्यक्त्वोद्बलने सम्यग्मिथ्यादृष्टेः सप्तविंशतिः 2, दर्शनद्वयोद्वलनेऽनादिमिथ्यादृष्टेर्वा षड्डिंशतिः 3 सम्यग्दृष्टरष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विंशतिः 4, मिथ्यात्वक्षये त्रयोविंशतिः 5, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः 6, क्षायिकसम्यग्दृष्टेरेकविंशतिः 7, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश 8, अन्यतरवेदक्षये द्वादश 9, द्वितीयवेदक्षये सत्येकादश 10, हास्यादिषट्कक्षये पञ्च 11, स्ववेदाभावे चत्वारि 12, सञ्जवलनक्रोधक्षये त्रयः 13, मानक्षये द्वौ 14, मायाक्षये सत्येको लोभः 15, तत्क्षये च मोहनीयासत्तेति / आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा-परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं 1, द्वितीयं तु तद्वन्धाभाव इति / नाम्नो द्वादश / सत्कर्मतास्थानानि, तद्यथा-त्रिनवतिः१ द्विनवतिः 2 एकोननवतिः 3 अष्टाशीतिः ४षडशीतिः५ अशीतिः 6 एकोनाशीतिः