SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 273 // श्रुतस्कन्ध:१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः सूत्रम् 110 मुनिस्वरूपम् परोपकारिणं वेत्ति, शस्त्राशस्त्रेच जानानस्तत्प्राप्तिपरिहारौ विधत्ते, एतत्फलत्वात् ज्ञानस्येति, यदिवाशब्दादिपर्यायेभ्यस्तज्जनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च संयमतपःखेदज्ञस्यास्रवनिरोधादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच्च यद्भवति तदुपदिशति - अकम्मस्स। इत्यादि, न विद्यते काष्टप्रकारमस्येत्यका तस्य व्यवहारो न विद्यते नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग् भवति / यश्चसकर्मास नारकादिव्यपदेशेन व्यपदिश्यत इत्याह-कम्मुणा इत्यादि, उपाधीयतेव्यपदिश्यते येनेत्युपाधिः- विशेषणं स उपाधिः कर्मणा- ज्ञानावरणीयादिना जायते, तद्यथा- मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान्नपुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा संसारी व्यपदिश्यते। यदि नामैवं ततः किं कर्त्तव्यमित्याह- कम्मं च इत्यादि, कर्म- ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृ तिस्थित्यनुभावप्रदेशात्मकं पर्यालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा- अष्टविधसत्कर्मापूर्वादिकरणक्षपकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्कर्मा (c) तदप्यतिदिशति (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy