SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 270 // धर्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपंवा वेत्तीति धर्मवित् ऋजु रिति ऋजोः-ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्या- श्रुतस्कन्ध:१ नुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् / तदेवं धर्मविजुर्मुनिः किम्भूतो तृतीयमध्ययनं शीतोष्णीयं, भवतीत्याह- आवट्ट इत्यादि, भावावर्तो जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि रागद्वेषवशाविद्धं, प्रथमोद्देशकः मिथ्यादर्शनदुस्तरम् / जन्मावर्ते जगत्क्षिप्त, प्रमादादाम्यते भृशम् ॥१॥भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्त्तश्च सूत्रम् 109 मुनिस्वरूपम् श्रोतश्चावर्त्तश्रोतसी तयोरागद्वेषाभ्यां सम्बन्धः- सङ्गस्तमभिजानाति-आभिमुख्येन परिच्छिनत्ति- यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणम्, जानानश्च परमार्थतः कोऽभिधीयते?, योऽनर्थं ज्ञात्वा परिहरति, ततश्चायमर्थः- संसारश्रोत:- सङ्गंरागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्तस्रोतसोः सङ्गस्याभिज्ञाता ॥१०८॥सुप्तजाग्रतांदोषगुणपरिच्छेदी कं गुणमवाप्नुयादित्याह सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागरवेरोवरए, वीरे एवंदुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ॥ सूत्रम् 109 // स बाह्याभ्यन्तरग्रन्थरहितःसन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौवा परीषहावतिसहमानः संयमासंयम-2 रत्यरतिसहः सन् परुषतां- कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो नो वेत्ति न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो न वेत्ति न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् / किं च- जागर इत्यादि, 8 // 270 // असंयमनिद्रापगमाज्जागर्तीति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो?- वीरः कर्मापनयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परं वा
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy