SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० भस्मान्ततामबुधः // 2 // अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्श सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति // 107 // एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह से आयवं नाणवं वेयवं धमवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवट्टसोए संगमभिजाणइ वृत्तियुतम् श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः सूत्रम् 108 मुनिस्वरूपम् श्रुतस्कन्धः१ // 269 / / ॥सूत्रम् 108 // यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे स मुमुक्षुरात्मवान् आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति, पाठान्तरं वा से आयवी नाणवी आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानं-यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपमनेनेति वेदः- आचाराद्यागमः तं वेत्तीत्ति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं. स्वर्गापवर्गमार्गं धर्मं वेत्तीति धर्मवित्, एवं ब्रह्म-अशेषमलकलङ्कविकलंयोगिशर्म वेत्तीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि- मत्यादीनि तैलॊकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति- परिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति / यश्चानन्तरगुणोपेतः स किंवाच्य? इत्यत आह- मुणी त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च- धम्म इत्यादि, // 269
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy