________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 268 // लोके षड्जीवनिकाये जानीहि परिच्छिन्द्या दुःखहेतुत्वाद्दुःखं-अज्ञानं मोहनीयं वा तदहिताय नरकादिभवव्यसनोपनिपाताय, श्रुतस्कन्धः१ इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभावस्वापादज्ञानरूपाहुःखहेतोर तृतीयमध्ययन शीतोष्णीयं, पसर्पणमिति, किंचान्यत्-समय मित्यादि, समय:- आचारोऽनुष्ठानंतं लोकस्यासुमद्वातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्यु प्रथमोद्देशक: त्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातनास्थानेषूत्पद्यते, सूत्रम् 107 ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशवातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते मुनिस्वरूपम् येन येनाधोऽधो व्रजति, संसारान्नोन्मज्जतीति, अयं लोकाचारस्तं ज्ञात्वा, अथवा समभावः समता तां ज्ञात्वा, लोकस्ये ति सप्तम्यर्थे षष्ठी, ततश्चायमर्थो- लोके जन्तुसमूहे समतां समशत्रुमित्रतां समात्मपरतां वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह- एत्थ सत्थोवरए, 'अत्र'अस्मिन्षट्कायलोकेशस्त्राद्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यत्संयमशस्त्रप्राणातिपाताद्यास्रवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति, आह च- जस्सिमे इत्यादि, यस्य मुनेरिमेप्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपगन्धरसस्पर्शा मनोज्ञेतरभेदभिन्ना अभिसमन्वागता इति, अभिःआभिमुख्येन सम्यग्- इष्टानिष्टावधारणतयाऽन्विति- शब्दादिस्वरूपावगमात् पश्चादागता:- ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषांक नान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोक इति, उक्तं च- रक्तः शब्दे हरिणः स्पर्श नागो रसे चल वारिचरः कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः॥ 1 // पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः / एकः पञ्चसु रक्तः प्रयाति // 268 //