SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 266 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, प्रथमोद्देशकः नियुक्तिः 211-212 मुनीनां जागरणम् नि०- सुत्ता अमुणिओसया मुणिओ सुत्तावि जागरा हुँति / धम्मं पडुच्च एवं निद्दासुत्तेण भइयत्वं / / 211 // सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यास्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादिनिद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सदा जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च / द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्- धर्मः स्याद्वा न वा, यद्यसौ भावतो जागर्ति ततो निद्रासुप्तस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य नस्यादेवेति भजनार्थः / अथ किमिति द्रव्यसुप्तस्य धर्मो न भवतीति?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति?, यतःस्त्यानर्द्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्बन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिर्वृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः॥ 211 // यथा च द्रव्यसुप्तो दुःखमवाप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह नि०-जह सुत्त मत्त मुच्छिय असहीणो पावए बहुं दुक्खं / तिवं अपडियारंपि वट्टमाणो तहा लोगो॥२१२॥ सुप्तो निद्रया मत्तो मदिरादिना मूर्च्छितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहणादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, तथा भावस्वापे-मिथ्यात्वाविरतिप्रमादकषायादिकेऽपि वर्तमानः अवतिष्ठमानो लोकः प्राणि // 266 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy