________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 265 // श्रुतस्कन्धः१ तृतीयमध्ययन शीतोष्णीयं, प्रथमोद्देशकः नियुक्ति: 210 सूत्रम् 106 मुनीनां जागरणम् R भवतीतियावत्, शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतंदुःखम्, तथा परीषहकषायवेदशोकान् शीतोष्णभूतान् सहत इति / तदेवं शीतोष्णादिसहः सन् भवेत् श्रमणः यतिः सदोद्युक्तश्च, क्व?- तपःसंयमोपशमे इति गाथार्थः ॥२०९॥साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयति नि०-सीयाणि य उण्हाणि य भिक्खूणं हंति विसहियव्वाई। कामा नसेवियव्वा सीओसणिज्जस्स निजुत्ती // 210 // शीतानि परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि उष्णानि च परीषहतपउद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि भिक्षूणां मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोरुत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह- कामा इत्यादि गाथार्द्ध सुगमम् // 210 // गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषवातविकलं सूत्रमुच्चारयितव्यम्, तच्चेदं सुत्ता अमुणी सया मुणिणो जागरंति॥ सूत्रम् 106 // 8 अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायं- इह दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तत इत्युक्तम्, तदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्त्तन्ते इति, उक्तं च- नातः परमहं मन्ये, जगतो दुःखकारणम् / यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम्॥१॥ इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तो द्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये अमुनयः मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात्, निद्रया तुभजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततं-अनवरतं जाग्रति हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि क्वचिद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥१०६॥एनमेव भावस्वापंजागरणंच विषयीकृत्य नियुक्तिकारोगाथांजगाद 8 // 265 //