SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 264 // श्रुतस्कन्धः१ तृतीयमध्ययनं शीतोष्णीयं, प्रथमोद्देशकः नियुक्तिः 208-209 शीतोष्णयोनिक्षेपादिः सुखं शीतमित्युक्तम्, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखं नापरम्, एतच्च समस्तकर्मोपतापाभाच्छीतमिति दर्शयति- निर्वाणसुख मिति, निर्वाणं-अशेषकर्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः, तेन तत्र वा सुखं निर्वाणसुखम्, अस्य चैकार्थिकानि-सातं शीतीभूतं पदमनाबाधमिति / इहापि संसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं मनआल्हादाद्, एतद्विपयर्यस्तु दुःखम्, तच्चोष्णमिति गाथार्थः॥ 207 // कषायादिपदव्याचिख्यासयाह नि०- डज्झइ तिव्वकसाओसोगभिभूओ उइन्नवेओय।उण्हयरो होइ तवो कसायमाईविजंडहइ // 208 // दह्यते परिपच्यते, कोऽसौ?- तीव्रा उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, शोकाऽभिभूतश्च इष्टवियोगादिजनितः शोकस्तेनाभिभूतस्तिरोहितशुभव्यापारोऽसावपि दह्यते, तथा उदीर्णो- विपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे कालोद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन च दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्वं वा मोहनीयमष्टप्रकारं वा कर्मोष्णम्, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन दर्शयति- उष्णतरं तपो भवति, किमिति?- यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः॥२०८॥ येनाभिप्रायेण द्रव्यभावभेदभिन्ने परिषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति नि०-सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो। हुज्ज समणो सया उज्जुओ य तवसंजमोवसमे // 209 // शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो // 264 / /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy