SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 263 // श्रुतस्कन्धः१ | तृतीयमध्ययनं शीतोष्णीयं, प्रथमोद्देशकः | नियुक्तिः 204-207 शीतोष्णयोनिक्षेपादिः शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे नि०- धर्ममि जो पमायइ अत्थे वा सीअलुत्ति तं बिंति / उजुत्तं पुण अन्नं तत्तो उहंति णं बिंति // 204 // दारं / / धर्मे श्रमणधर्मे यः प्रमाद्यति नोद्यम विधत्ते अर्थे वा अर्थ्यत इत्यर्थो- धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं ब्रुवते आचक्षते, उद्युक्तं पुनरन्यं ततः- संयमोद्यमात् कारणादुष्णमित्येवं ब्रुवते, णमिति वाक्यालङ्कार इति गाथार्थः // 204 // उपशमपदव्याचिख्यासयाऽऽह नि०- सीईभूओ परिनिव्वुओ य संतो तहेव पण्हाणो (ल्हाओ)। होउवसंतकसाओ तेणुवसंतो भवे सीओ॥२०५॥ दारं // उपशमो ही क्रोधाद्युदयाभावे भवति, ततश्च कषायाग्न्युपशमाच्छीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिर्वृतो भवति, चः समुच्चये, रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात् प्रह्लादितः आपन्नसुखो, यतो ह्युपशान्तकषायः एव एवम्भूतो भवति तेनोपशान्तकषाय: शीतो भवतीति, एकार्थिकानि वैतानीति गाथार्थः // 205 // अधुना विरतिपदव्याख्यामाह नि०- अभयकरो जीवाणं सीयघरो संयमो भवइ सीओ। अस्संजमो य उण्हो एसो अन्नोऽवि पजाओ।।२०६॥दारं। अभयकरणशीलः, केषां? - जीवानाम्, शीतं- सुखं तगृह- तदावासः, कोऽसौ?-संयमः सप्तदशभेदः, अतोऽसौ शीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, एष शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः // २०६॥साम्प्रतं सुखपदविवरणायाह नि०-निवाणसुहं सायं सीईभूयं पयं अणाबाहं / इहमविजं किंचि सुहं तं सीयं दुक्खमवि उण्हं / / 207 // // 263 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy