________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 261 // त्वयमधिकारो, यथा-कषायाणां वमनं कार्यम्, पापस्य च कर्मणो विरतिः, विदुषो विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, श्रुतस्कन्ध:१ क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः॥ 197-198 // नामनिष्पन्ने तु निक्षेपे शीतोष्णीय तृतीयमध्ययन शीतोष्णीयं, मध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह प्रथमोद्देशक: नि०- नामं ठवणा सीयं दव्वे भावे य होइ नायव्वं / एमेव य उण्हस्सवि चउव्विहो होइ निक्खेवो॥१९९॥ नियुक्तिः 199-201 सुगमा। 199 / / तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाह शीतोष्णयोनि०-दव्वे सीयलदव्वं दव्वुण्हं चेव उण्हदव्वं तु / भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो / 200 // निक्षेपादिः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्दव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं- हिमतुषारकरकादि, एवं द्रव्योष्णमपीति / भावतस्तु द्वेधा- पुद्गलाश्रितं जीवाश्रितं च, गाथाशकलेनाचष्टे- तत्र। पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तुशीतोष्णरूपोऽनेकविधो। गुणः, तद्यथा- औदयिकादयः षड्भावाः, तत्रौदायिकः कर्मोदयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षण उष्णः, औपशमिकःकर्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपिशीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति // 200 // अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह__नि०- सीयं परीसहपमायुवसमविरई सुहंच उण्हं तु / परीसहतवुजमकसाय सोगाहिवेयारई दुक्खं ॥२०१॥दारं // शीत मिति भावशीतं तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरार्थं परिषोढव्या:परीषहाः