SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 260 // ॥अथ तृतीयमध्ययनं शीतोष्णीयाख्यम्॥ श्रुतस्कन्ध:१ ॥प्रथमोद्देशकः॥ तृतीयमध्ययन शीतोष्णीयं, उक्तं द्वितीयमध्ययनम्, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामर्थाधिकारोऽभाणि, यथा प्रथमोद्देशकः शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यम्, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रत- नियुक्तिः 197-198 सम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परी अर्थाधिकारः षहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेन सम्यक्सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु / नियुक्तिकार आह नि०- पढमे सुत्ता अस्संजयत्ति 1 बिइए दुहं अणुहवंति 2 / तइए न हु दुक्खेणं अकरणयाए व समणुत्ति 3 // 197 / / नि०- उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं / पावविरईओ विओसो उसंजमो इत्थ मुक्खुत्ति 4 // 198 // __ प्रथमोद्देशकेऽयमर्थाधिकारो, यथा- भावनिद्रया सुप्ताः- सम्यग्विवेकरहिताः, के?-असंयताः- गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा- जरामचुवसोवणीए नरे इत्यादि 1, द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा- कामेसु गिद्धा निचयं करंति 2, तृतीये तु न हु नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैवअक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च- सहिए दुक्खमायाय तेणेव य पुट्ठो नो झंझाए 3, चतुर्थोद्देशके (r) यामस्यार्थाधि० (मु०)। 0 विउणो (प्र०)। // 260 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy