SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 259 // | श्रुतस्कन्धः१ | द्वितीयमध्ययन लोकविजयः, षष्ठोद्देशकः | सूत्रम् 105 देशकस्य पुरुषदिज्ञानावश्कता सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः,॥१०४॥ तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्धातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्ग निराचिकीर्षोहिँसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तद्दर्शयतिवरतस्यावा उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्टअणुपरियट्टइ // सूत्रम् 105 // त्तिबेमि // लोकविजयाध्ययनम् 2 // उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः स पश्यकस्य परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्तिं यावतृतीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति।तानि चामूनि बालः पुनर्निहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवातमनुपरिवर्त्तते॥१०५॥ इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् / / (ग्रन्थाग्रं 2500) / उक्तः षष्ठोद्देशकः / / तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः / साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषांतावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्यादृष्टित्वम्, अतः पझ्वन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते // इति लोकविजयाध्ययनस्य टीका समाप्ता // 2 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं _श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ द्वितीयमध्ययनं लोकविजयाख्यं समाप्तम् / / // 259 /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy