________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 258 // प्रसजति ।स्यादेतत् योऽयमणोद्धातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितःस किं छद्मस्थ आहोस्वित् केवली?, केवलिनो श्रुतस्कन्धः१ यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणम्, केवलिनस्तर्हि का वार्तेति?, उच्यते- कुसले इत्यादि, कुशलोऽत्र क्षीणघाति द्वितीयमध्ययन लोकविजयः, कर्मांशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु षष्ठोद्देशक: पुनर्घातिकर्मक्षयानो बद्धो भवोपग्राहिकर्मसद्भावान्नो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते- कुशलः अवाप्तज्ञानदर्शनचारित्रो / सूत्रम् 104 देशकस्य मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुदयवानिव न बद्धोऽद्यापि तत्सत्कर्मतासद्भावान्नो मुक्त इति // 103 // एवम्भूतश्च पुरुषदिकुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति ज्ञानावश्कता से जंच आरभेजंच नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्नं च सव्वसो॥सूत्रम् 104 // स कुशलो यदारभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणम्, तदारब्धव्यमारम्भणीयमनारब्धव्यमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात्, तन्निषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह-अणारखंच इत्यादि, अनारब्धं-अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षु रभेत-न कुर्यादित्युपदेशो, यच्चमोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति / यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह- छणं छणं इत्यादि, क्षणु हिंसायां क्षणनं क्षणो- हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षण:- अवसरः कर्त्तव्यकालस्तं // 258 // तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति। किं च- लोयसन्नं इत्यादि, लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञाविषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं?- सर्वशः।