________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 257 // पुरुषदि ज्ञानावश्कता सिद्धंतविराहओ अण्णो॥१॥य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-एस इत्यादि, यो हि पुण्यापुण्यवतोधर्मकथा- श्रुतस्कन्धः१ द्वितीयमध्ययन समदृष्टिर्विधिज्ञः श्रोतृविवेचकः एषः अनन्तरोक्तो वीरः कर्मविदारकः प्रशंसितः श्लाघितः। किंभूतश्च यो भवतीत्याह-जे बद्धे / लोकविजयः, इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्मकथोपदेशदानादिना, स च / षष्ठोद्देशक: तीर्थकृद्गणधर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति / क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह- उर्ल्ड इत्यादि, ऊर्द्धन सूत्रम् 103 देशकस्य ज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यग्दिक्षु मनुष्यादीनिति / किं च-से सव्वओ इत्यादि, स इति वीरो बद्धप्रतिमोचकः सर्वतः सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितः सर्वसंवरचारित्रोपेतो वा, स एवंभूतः कं गुणमवाप्नोतीत्याह- न लिप्पई त्यादि, न लिप्यते नावगुण्ठ्यते, केन?- क्षणपदेन हिंसास्पदेन / प्राण्युपमर्दजनितेन, क्षणु हिंसायामि त्यस्यैतद्रूपम् / कोऽसौ?, वीर इति / किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य) स्तीत्याहसे मेहावी त्यादि, स मेधावी बुद्धिमान् यः अणोद्धातनस्य खेदज्ञः अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं-कर्म तस्योत्प्राबल्येन घातनं- अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोधतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स. मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्- जे य इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्धातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितम्, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः / / 1 / / // 257 //