SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 254 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, षष्ठोद्देशकः सूत्रम् 102 देशकस्य पुरुषदिज्ञानावश्कता कम्म इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तद्दुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां कुशला उदाहरन्ति तदुःखं कर्मकृतं तत्काष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च, तद्यथा- ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्तते, अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानंच केवलिनो गणधरस्य चतुर्दशपूर्वविदोवा, यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति / सा च कीहक्कथेत्याह-जे इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथा नासावनन्यदर्शी यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो?- यः सम्यग्दृष्टिमौनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिःसोऽनन्यारामो मोक्षमार्गादन्यत्र न रमते। हेतुहेतुमद्भावेन सूत्रं लगयितुमाह-'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तं चशिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् / येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः॥१॥ इत्यादि। तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति- जहा पुण्णस्स इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण पुण्यवतः सुरेश्वरचक्रवर्तिमाण्डलिकादेः कथ्यते उपदेशो दीयते तथा तेनैव प्रकारेण तुच्छस्य द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तं च- ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः। तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् // 1 // एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्ध्या इति कम्म' (प्र०)। 0 कथाचतुष्टयलक्षणं त्विदं-स्थाप्यते हेतुदृष्टान्तैः, स्वमतं यत्र पण्डितैः / स्याद्वादध्वनिसंयुक्तं, सा कथाऽऽक्षेपणी मता // 1 // " मिथ्यादृशां मतं यत्र, पूर्वापरविरोधकृत्। तन्निराक्रियते सद्भिः, सा च विक्षेपणी मता // 2 // " यस्याः श्रवणमात्रेण, भवेन्मोक्षाभिलाषिता। भव्यानां सा च विद्वद्भिः, प्रोक्ता संवेदनी कथा॥ 3 // यत्र संसारभोगाङ्गस्थितिलक्षणवर्णनम् / वैराग्यकारणं भव्यैः, सोक्ता निवेदनीकथा॥ 4 // 8 // 254
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy