________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 253 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, षष्ठोद्देशक: सूत्रम् 102 देशकस्य पुरुषदि ज्ञानावश्कता ज्ञोपजीवकः स सुवसुमुनिर्भवत्यरिक्तो न ग्लायति च वक्तुम्, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च- एस इत्यादि, एष इति सुवसुमुनिर्ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् प्रशंसितः तद्विद्भिः श्लाधित इति / किं चअच्चेई त्यादि, स एवं भगवदाज्ञानुवर्तको वीरोऽत्येति- अतिक्रामति, कं?- लोकसंयोगं लोकेनासंयतलोकेन संयोगःसम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनधान्यहिरण्यमातापित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारं कर्म तेन सार्द्ध संयोगमत्येति- अतिलवयतीत्युक्तं भवति / यदि नामैवं ततः किमित्याहएस इत्यादि, योऽयं लोकसंयोगातिक्रमः एष न्यायः एष सन्मार्गः मुमुक्षूणामयमाचारः प्रोच्यते अभिधीयते, अथवा परमात्मानं च मोक्षं नयतीति छान्दसत्वात्कर्तरि घञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनोर्मोक्षस्य नायः प्रोच्यते मोक्षप्रापकोऽभिधीयते सदुपदेशात् // 101 // स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह जंदुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरंति, इइ कम्मं परिन्नाय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणण्णारामे से अणन्नदंसी, जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ। सूत्रम् 102 // यहुःखं दुःखकारणं वा कर्म लोकसंयोगात्मकं वा प्रवेदितं तीर्थकृद्भिरावेदितं इह अस्मिन् संसारे मानवानां जन्तूनाम्, ततः किं?-तस्य दुःखस्य असातलक्षणस्य कर्मणो वा कुशला निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञां उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च / किं च-इति ®धनहिरण्यमातृपित्रादिः (मु०)।