________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 252 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, षष्ठोद्देशकः सूत्रम् 101 रूक्षसेविसम्यक्त्व दर्शिनोवीराः मुनिः यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौघम्, कश्च भवौघं तरति?-यो मुक्तः सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति?-यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् ॥१००॥इतिरधिकारपरिपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह दुव्वसुमुणी अणाणाए, तुच्छए गिलाए वत्तए, एस वीरे पसंसिए, अच्चेइ लोयसंजोगं, एस नाए पवुच्चइ // सूत्रम् 101 // वसु-द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं द्रव्यं च भव्य इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्व्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः- मोक्षगमनायोग्यः, स च कुतो भवति?- अनाज्ञया- तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते?, तदुच्यते-उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यम्, तथाहि-मिथ्यात्वमोहिते लोके संबोद्धंदुष्करं व्रतेष्वात्मानमध्यारोपयितुंरत्यरती निग्रहीतुंशब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुम्, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने च कर्मोदयोऽनाद्यतीतकालसुखभावनाच कारणम्, जीवो हि स्वभावतोदुःखभीरुर-। निरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह- तुच्छए इत्यादि, तुच्छो रिक्तः, सच द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुम्, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुम्, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति / यस्तु कषायमहाविषागदकल्पभगवदा // 25