________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 251 // षष्ठोद्देशकः अ०॥ इत्यादि वाच्यम्, ततश्च शब्दादीन्विषयानधिसहमान: किं कुर्यादित्याह- निविंद इत्यादि, इहोपदेशगोचरापन्नो श्रुतस्कन्धः१ विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् इह द्वितीयमध्ययन लोकविजयः, मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दिः- तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति?, उक्तं च विभव इति किं मदस्ते?, सूत्रम् 100 रूक्षसेविच्युतविभवः किं विषादमुपयासि ? / करनिहतकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥१॥एवं रूपबलादिष्वपि वाच्यम्, सनत्कुमार-2 सम्यक्त्व दृष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत् किमालम्ब्य दर्शिनोवीराः करोतीत्याह मुणी त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः- संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौन वावाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात्?- धुनीयात् कर्मशरीरकं औदारिकादिशरीरं वा, अथवा धुनीहि विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः / कथं तच्छरीरकं धूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह- प्रान्तं स्वाभाविकरसरहितं स्वल्पंवा रूक्षं आगन्तुक स्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं द्वेषरहितं विगतधूमं रूक्षं- रागरहितमपगताङ्गार सेवन्ते भुञ्जते, के?- वीराः साधवः, किंभूताः?- समत्वदर्शिनः रागद्वेषरहिताः सम्यक्त्वदर्शिनोवा- सम्यक् तत्त्वंसम्यक्त्वं तद्दर्शिनः परमार्थदृशः, तथाहि- इदंशरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा, प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह- एस इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौघं तरतीति / कोऽसौ?- तथा गन्धेषु च। 0 यानभिसहमानः (प्र०)। (r) करनिहित० (मु०)। // 251 //